The easiest way to skyrocket your YouTube subscribers
Get Free YouTube Subscribers, Views and Likes

SHRI BHAKTAMAR STOTRA | RAAG ABHOGI | DR. SHARAD SHAH | PRATIK SHAH | SUPRIYA JOSHI | SAURABH MEHTA

Follow
Mantra Suravali

#bhaktamarstotra #bhaktamar #drsharadshah #pratikbshah #pratikshah #abhogi #nitinkayarkar #mantung #divinemusic #jainism #adinath #adeshwar #tirthankar #peace #meditation #moksha #mantungacharya #supriyajoshi

Credits:
Lyrics: Jain Acharya Shri Mantung
Music: Dr. Sharad Shah
Singers: Supriya Joshi & Saurabh Mehta
Music Arranger: Pratik Shah
Recordist: Nitin Kayarkar (Ajivasan Sounds)
Video: Raj Savla

भक्तामर प्रणत मौलिमणि प्रभाणा। मुद्योतकं दलित पाप तमोवितानम् ॥
सम्यक् प्रणम्य जिन पादयुगं युगादा। वालंबनं भवजले पततां जनानाम् ॥१॥
यः संस्तुतः सकल वाङ्मय तत्वबोधा। दुद्भुत बुद्धिपटुभिः सुरलोकनाथैः ॥
स्तोत्रैर्जगत्त्रितय चित्त हरैरुदारैः। स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥
बुद्ध्या विनाऽपि विबुधार्चित पादपीठ। स्तोतुं समुद्यत मतिर्विगतत्रपोऽहम् ॥
बालं विहाय जलसंस्थितमिन्दु बिम्ब। मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥३॥
वक्तुं गुणान् गुणसमुद्र शशाङ्क्कान्तान्। कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या ॥
कल्पान्त काल् पवनोद्धत नक्रचक्रं। को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥
सोऽहं तथापि तव भक्ति वशान्मुनीश। कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः ॥
प्रीत्यात्मवीर्यमविचार्य मृगो मृगेन्द्रं। नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५॥
अल्पश्रुतं श्रुतवतां परिहासधाम्। त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् ॥
यत्कोकिलः किल मधौ मधुरं विरौति। तच्चारुचूत कलिकानिकरैकहेतु ॥६॥
त्वत्संस्तवेन भवसंतति सन्निबद्धं। पापं क्षणात् क्षयमुपैति शरीर भाजाम् ॥
आक्रान्त लोकमलिनीलमशेषमाशु। सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥
मत्वेति नाथ्! तव् संस्तवनं मयेद। मारभ्यते तनुधियापि तव प्रभावात् ॥
चेतो हरिष्यति सतां नलिनीदलेषु। मुक्ताफल द्युतिमुपैति ननूदबिन्दुः ॥८॥
आस्तां तव स्तवनमस्तसमस्त दोषं। त्वत्संकथाऽपि जगतां दुरितानि हन्ति ॥
दूरे सहस्त्रकिरणः कुरुते प्रभैव। पद्माकरेषु जलजानि विकाशभांजि ॥९
नात्यद् भूतं भुवन भुषण भूतनाथ। भूतैर् गुणैर् भुवि भवन्तमभिष्टुवन्तः ॥
तुल्या भवन्ति भवतो ननु तेन किं वा। भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥
दृष्टवा भवन्तमनिमेष विलोकनीयं। नान्यत्र तोषमुपयाति जनस्य चक्षुः ॥
पीत्वा पयः शशिकरद्युति दुग्ध सिन्धोः। क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥११॥
यैः शान्तरागरुचिभिः परमाणुभिस्तवं। निर्मापितस्त्रिभुवनैक ललाम भूत ॥
तावन्त एव खलु तेऽप्यणवः पृथिव्यां। यत्ते समानमपरं न हि रूपमस्ति ॥१२॥
वक्त्रं क्व ते सुरनरोरगनेत्रहारि। निःशेष निर्जित जगत् त्रितयोपमानम् ॥
बिम्बं कलङ्क मलिनं क्व निशाकरस्य। यद्वासरे भवति पांडुपलाशकल्पम् ॥१३॥
सम्पूर्णमण्ङल शशाङ्ककलाकलाप्। शुभ्रा गुणास्त्रिभुवनं तव लंघयन्ति ॥
ये संश्रितास् त्रिजगदीश्वर नाथमेकं। कस्तान् निवारयति संचरतो यथेष्टम् ॥१४॥
चित्रं किमत्र यदि ते त्रिदशांगनाभिर्। नीतं मनागपि मनो न विकार मार्गम् ॥
कल्पान्तकालमरुता चलिताचलेन। किं मन्दराद्रिशिखिरं चलितं कदाचित् ॥१५॥
निर्धूमवर्तिपवर्जित तैलपूरः। कृत्स्नं जगत्त्रयमिदं प्रकटी करोषि ॥
गम्यो न जातु मरुतां चलिताचलानां। दीपोऽपरस्त्वमसि नाथ् जगत्प्रकाशः ॥१६॥
नास्तं कादाचिदुपयासि न राहुगम्यः। स्पष्टीकरोषि सहसा युगपज्जगन्ति ॥
नाम्भोधरोदर निरुद्धमहाप्रभावः। सूर्यातिशायिमहिमासि मुनीन्द्र! लोके ॥१७॥
नित्योदयं दलितमोहमहान्धकारं। गम्यं न राहुवदनस्य न वारिदानाम् ॥
विभ्राजते तव मुखाब्जमनल्प कान्ति। विद्योतयज्जगदपूर्व शशाङ्कबिम्बम् ॥१८॥
किं शर्वरीषु शशिनाऽह्नि विवस्वता वा। युष्मन्मुखेन्दु दलितेषु तमस्सु नाथ ॥
निष्पन्न शालिवनशालिनि जीव लोके। कार्यं कियज्जलधरैर् जलभार नम्रैः ॥१९॥
ज्ञानं यथा त्वयि विभाति कृतावकाशं। नैवं तथा हरिहरादिषु नायकेषु ॥
तेजः स्फुरन्मणिषु याति यथा महत्वं। नैवं तु काच शकले किरणाकुलेऽपि ॥२०॥
मन्ये वरं हरि हरादय एव दृष्टा। दृष्टेषु येषु हृदयं त्वयि तोषमेति ॥
किं वीक्षितेन भवता भुवि येन नान्यः। कश्चिन्मनो हरति नाथ! भवान्तरेऽपि ॥२१॥
स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्। नान्या सुतं त्वदुपमं जननी प्रसूता ॥
सर्वा दिशो दधति भानि सहस्त्ररश्मिं। प्राच्येव दिग् जनयति स्फुरदंशुजालं ॥२२॥
त्वामामनन्ति मुनयः परमं पुमांस। मादित्यवर्णममलं तमसः परस्तात् ॥
त्वामेव सम्यगुपलभ्य जयंति मृत्युं। नान्यः शिवः शिवपदस्य मुनीन्द्र! पन्थाः ॥२३॥
त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं। ब्रह्माणमीश्वरमनंतमनंगकेतुम् ॥
योगीश्वरं विदितयोगमनेकमेकं। ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥
बुद्धस्त्वमेव विबुधार्चित बुद्धि बोधात्। त्वं शंकरोऽसि भुवनत्रय शंकरत्वात् ॥
धाताऽसि धीर! शिवमार्ग विधेर्विधानात्। व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोऽसि ॥२५॥

तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ। तुभ्यं नमः क्षितितलामलभूषणाय ॥
तुभ्यं नमस्त्रिजगतः परमेश्वराय। तुभ्यं नमो जिन! भवोदधि शोषणाय ॥२६॥

स्तोत्रस्त्रजं तव जिनेन्द्र! गुणैर्निबद्धां। भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् ॥
धत्ते जनो य इह कंठगतामजस्रं। तं मानतुंगमवशा समुपैति लक्ष्मीः ॥४४॥

posted by Utreraqr